(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat- Hindi (Devanagari) 100000 shlokas


॥ श्रीः ॥
11.25. अध्यायः 025
Mahabharata - Strii Parva - Chapter Topics
कृष्णम्प्रति गान्धार्या कुरुपाण्डवसंक्षयस्य कृष्णोपेक्षणहेतुकत्वकथनपूर्वकं सर्वबन्धुसंक्षयाय शापदानम्॥ 1 ॥


Mahabharata - Strii Parva - Chapter Text

गान्धार्युवाच। 11-25-0x(5360)(65516)
काम्भोजं पश्य दुर्धर्षं काम्भोजास्तरणोचितम्।
शयानमृषभस्कन्धं हतं पांसुषु माधव॥ 11-25-1(65517)
अस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ।
अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता॥ 11-25-2(65518)
इमौ तौ परिघप्रख्यौ बाहू चन्दनरूषितौ।
ययोर्विवरमापन्नां न रतिर्मां पुराऽजहात्॥ 11-25-3(65519)
कां गतिं तु गमिष्यामि त्वया हीना जनेश्वर।
दूरबन्धुरनाथा च वेपन्ती मधुरस्वरा॥ 11-25-4(65520)
आतपे क्लाम्यमानानां विविधानामिव स्रुजाम्।
क्लान्तानामपि नारीणां जहाति श्रीर्न वै तनूः॥ 11-25-5(65521)
शयानमभितः शूरं कालिङ्गं मधुसूदन।
पश्य दीप्ताङ्गदयुतं प्रतिमानं धनुष्मताम्॥ 11-25-6(65522)
मागधानामधिपतिं जयत्सेनं जनार्दन।
परिवार्य प्ररुदिता मागध्यः पश्य योषितः॥ 11-25-7(65523)
हरिणायतनेत्राणां सुस्वराणां जनार्दन।
मनः श्रुतिहरो नादो मनो मोहयतीव मे॥ 11-25-8(65524)
प्रकीर्णवस्त्राभरणा रुदत्यः शोककर्शिताः।
स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि॥ 11-25-9(65525)
कोसलानामधिपतिं राजपुत्रं बृहद्बलम्।
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः॥ 11-25-10(65526)
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलेरितान्।
उद्धरन्त्यसुखाविष्टा मूर्च्छमानाः पुनः पुनः॥ 11-25-11(65527)
आसां सर्वानवद्यानामातपेन परिश्रमात्।
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव॥ 11-25-12(65528)
द्रोणेन निहताः शूरा शेरते रुचिराङ्गदाः।
धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः॥ 11-25-13(65529)
रथाग्न्यगारं चापार्चिं शरशक्तिगदेन्धनम्।
द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम्॥ 11-25-14(65530)
तथैव निहताः शूराः शेरते रुचिराङ्गदाः।
द्रोणेनाभिमुखाः सङ्ख्ये भ्रातरः पञ्च केकयाः॥ 11-25-15(65531)
तप्तकाञ्चनवर्माणस्तालध्वजस्थव्रजाः।
भासयन्ति महीं भासा ज्वलिता इव पावकाः॥ 11-25-16(65532)
द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम्।
महाद्विपमिवारण्ये सिंहेन महता हतम्॥ 11-25-17(65533)
पाञ्चालराज्ञो विमलं पुण्डरीकाक्ष पाण्डुरम्।
आतपत्रं समाभाति शरदीव निशाकरः॥ 11-25-18(65534)
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः।
दग्ध्वा गच्छन्ति पाञ्चालराजानमपसव्यतः॥ 11-25-19(65535)
धृष्टकेतुं महात्मानं चेदिपुङ्गवमङ्गनाः।
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः॥ 11-25-20(65536)
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन।
महेष्वासो हतः शेते वज्राहत इव द्रुमः॥ 11-25-21(65537)
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः।
शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः॥ 11-25-22(65538)
वितुद्यमानं विहगैस्तं भार्याः पर्युपाश्रिताः।
चेदिराजं हृषीकेश हतं सबलबान्धवम्॥ 11-25-23(65539)
दाशार्हपुत्रजं वीरं शयानं सत्यविक्रमम्।
आरोप्याङ्के रुदन्त्येताश्चेदिराज वराङ्गनाः॥ 11-25-24(65540)
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम्।
द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः॥ 11-25-25(65541)
पितरं नूनमाजिस्थं युध्यमानं परैः सह।
नाजहात्पितरं वीरमद्यापि मधुसूदन॥ 11-25-26(65542)
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात्।
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा॥ 11-25-27(65543)
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव।
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव॥ 11-25-28(65544)
काञ्चनाङ्गदवर्माणौ बाणखङ्गधनुर्धरौ।
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ॥ 11-25-29(65545)
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह।
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात्॥ 11-25-30(65546)
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च जयद्रथात्।
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः॥ 11-25-31(65547)
ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः।
त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम्॥ 11-25-32(65548)
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन।
यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः।
`शूराश्च कृतविद्याश्च मम पुत्रा मनस्विनः'॥ 11-25-33(65549)
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः।
यदैवाकृतकामस्त्वमुपप्लाव्यं गतः पुनः॥ 11-25-34(65550)
शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च।
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति॥ 11-25-35(65551)
तयोर्हि दर्शनं नैतन्मिथ्या भवितुमर्हति।
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन॥ 11-25-36(65552)
वैशम्पायन उवाच। 11-25-37x(5361)
इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोकमूर्च्छिता।
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत॥ 11-25-37(65553)
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता।
जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया॥ 11-25-38(65554)
गान्धार्युवाच। 11-25-39x(5362)
पाण्डवाः धार्तराष्ट्राश्च क्रुद्धाः कृष्ण परस्परम्।
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ॥ 11-25-39(65555)
शक्तेन बहुभृत्येन विपुले तिष्ठता बले।
उभयत्र समर्थेन श्रुतवाक्येन चैव ह॥ 11-25-40(65556)
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन।
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि॥ 11-25-41(65557)
पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम्।
तेन त्वां दुरवापेन शपे चक्रगदाधरम्॥ 11-25-42(65558)
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः।
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि॥ 11-25-43(65559)
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन।
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः॥ 11-25-44(65560)
अनाथवदविज्ञातो लोकेष्वनभिलक्षितः।
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि॥ 11-25-45(65561)
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः।
स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः॥ 11-25-46(65562)
वैशम्पयन उवाच। 11-25-47x(5363)
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः।
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव॥ 11-25-47(65563)
जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये।
दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः॥ 11-25-48(65564)
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे।
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः॥ 11-25-49(65565)
परस्परकृतं नाशं यतः प्राप्स्यन्ति यादवाः।
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः।
बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते॥ ॥ 11-25-50(65566)

इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि पञ्चविंशोऽध्यायः॥ 25 ॥

Mahabharata - Strii Parva - Chapter Footnotes
11-25-1 काम्भोजास्तरणं कम्बलविशेषः॥ 11-25-3 बाहू शुभतलाङ्गुली इति झ.पाठः॥ 11-25-6 दीप्ताङ्गदयुगप्रतिनद्धमहाभुजमिति झ.पाठः॥ 11-25-24 दाशार्हपुत्रजमित्यत्र पुत्र्यामपि पुत्रशब्दः॥ 11-25-26 पितरमिति पितृपदस्यावृत्तिः शोकाकुलत्वान्न दोषाय॥ 11-25-36 तयोर्भीष्मविदुरयोः दर्शनं अनागतावेक्षणम्॥ 11-25-38 जगादशौरिं रोषणेति ट.पाठः॥ 11-25-47 अभ्युत्स्मयन्नीषद्ध्वंसयन्॥ 11-25-48 चीर्णं चरसि मदनुष्टितमेवानुतिष्ठसि। स्वतपोनाशार्थमिति भावः॥ 11-25-25 पञ्चविंशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.